9. वैश्यस्तोमः - இது अग्निष्टोमவிகிருதி. இதில் முதலாவது पृष्ठஸாமம் कण्वरथन्तरம். அதை எந்த ऋக்கில் गानம்செய்கிறதென்று விசாரித்து, அதினுடைய ऋக்கிலே (स्वयोनौ) गानம் செய்கிறதென்று தீர்மானம். (ताण्ड्य.ब्रा.अध्या-18, खण्डः-4; अध्या-10, पा-4, अधि-24).
ताण्ड्य.ब्रा.अध्या-18, खण्डः-4
1 - सप्तदशोऽग्निष्टोमः
2 - तस्य प्रातःसवनीयान्सोमान्प्रतिदुहा श्रीणाति शृतेन मध्यन्दिने दध्ना तृतीयसवने
3 - पशुकामो यजेत
4 - यत्सर्वाणि सवनान्याशीर्वन्ति भवन्त्यनुसवनं एवैनं पशुभिः सर्मर्धयति प्रजा त्वस्य मीलितेव भवति शुक्रिये हि सवने पयसा श्रीणाति
5 - वैश्यं याजयेत्
6 - एतद्वै वैश्यस्य समृद्धं यत्पशवः पशुभिरेवैनं समर्धयति
7 - तस्य कण्वरथन्तरं पृष्ठम्
8 - सदोविशीयं ब्रह्मसाम
9 - पशवो वै कण्वरथन्तरं पशवः सदोविशीयं आभिपूर्वानेवास्मिन्पशून्दधाति
10 - सर्वः सप्तदशो भवति
11 - द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरं पशवोऽनुप्रजायन्ते तानेवाप्त्वावरुन्धे
मीमांसा, अध्या-10, पा-4, अधि-24 - कण्वरथंतरस्य स्वयोनौ गानाधिकरणम्
10.4.24.43 - पृष्ठार्थेऽन्यद्रथन्तरात्तद्योनिपूर्वत्वात् स्यादृचां प्रविभक्तत्वात् ॥
10.4.24.44 - स्वयोनौ वा सर्वाख्यत्वात् ॥
10.4.24.45 - यूपवदिति चेत् ॥
10.4.24.46 - न कर्मसंयोगात् ॥